|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.287. अध्यायः 287
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति शक्रवृत्रयुद्धवर्णनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-287-0x(6382)(76738)
अहो धर्मिष्ठता तस्य वृत्रस्यामिततेजसः।
यस्य विज्ञानमतुलं विष्णोर्भक्तिश्च तादृशी॥ 12-287-1(76739)
दुर्विज्ञेयमिदं तस्य विष्णोरमिततेजसः।
कथं वा राजशार्दूल पदं तु ज्ञातवानसौ॥ 12-287-2(76740)
भवता कथितं ह्येतच्छ्रद्दधे चाहमच्युत।
भूयश्च मे समुत्पन्ना बुद्धिरव्यक्तदर्शना॥ 12-287-3(76741)
कथं विनिहतो वृत्रः शक्रेण भरतर्षभ।
धार्मिको विष्णुभक्तश्च तत्त्वज्ञश्च तदन्वये॥ 12-287-4(76742)
एतन्मे संशयं ब्रूहि पृच्छते भरतर्षभ।
वृत्रः स राजशार्दूल यथा शक्रेण निर्जितः॥ 12-287-5(76743)
यथा चैवाभवद्युद्धं तच्चाचक्ष्व पितामह।
विस्तरेण महाबाहो परं कौतूहलं हि मे॥ 12-287-6(76744)
भीष्म उवाच। 12-287-7x(6383)
रथेनेन्द्रः प्रयातो वै सार्धं सुरगणैः पुरा।
ददर्शाथाग्रतो वृत्रं धिष्ठितं पर्वतोपमम्॥ 12-287-7(76745)
योजनानां शतान्यूर्ध्वं पञ्चोन्छ्रितमरिंदम्।
शतानि विस्तरेणाथ त्रीणि चाभ्यधिकानि वै॥ 12-287-8(76746)
तत्प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम्।
वृत्रस्य देवाः संत्रस्ता न शान्तिमुपलेभिरे॥ 12-287-9(76747)
शक्रस्य तु तदा राजन्नूरुस्तम्भो व्यजायत।
भयाद्वृत्रस्य सहसा दृष्ट्वा तद्रूपमुत्तमम्॥ 12-287-10(76748)
ततो नादः समभवद्वादित्राणां च निःस्वनः।
देवासुराणां सर्वेषां तस्मिन्युद्धे ह्युपस्थिते॥ 12-287-11(76749)
अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रमवस्थितम्।
न संभ्रमो न भीः काचिदास्था वा समजायत॥ 12-287-12(76750)
ततः समभवद्युद्धं त्रैलोक्यस्य भयंकरम्।
शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः॥ 12-287-13(76751)
असिभिः पट्टसैः शूलैः शक्तितोमरम्रुद्गरैः।
शिलाभिर्विविधाभिश्च कार्मुकैश्च महास्वनैः॥ 12-287-14(76752)
अस्त्रैश्च विविर्धौर्दिव्यैः पावकोल्काभिरेव च।
देवासुरैस्ततः सैन्यैः सर्वमासीत्समाकुलम्॥ 12-287-15(76753)
पितामहपुरोगाश्च सर्वे देवगणास्तदा।
ऋषयश्च महाभागास्तद्युद्धं द्रष्टुमागमन्॥ 12-287-16(76754)
विमानाग्र्यैर्महाराज सिद्धाश्च भरतर्षभ।
गन्धर्वाश्च विमानाग्रैरप्सरोभिः समागमन्॥ 12-287-17(76755)
ततोऽन्तरिक्षमावृत्य वृत्रो धर्मभूतां वरः।
अश्मवर्षेण देवेन्द्रं सर्वतः समवाकिरत्॥ 12-287-18(76756)
ततो देवगणाः क्रुद्धाः सर्वतः शरवृष्टिभिः।
अश्मवर्षमपोहन्त वृत्रप्रेरितमाहवे॥ 12-287-19(76757)
वृत्रस्तु कुरुशार्दूल महामायो महाबलः।
मोहयामास देवेन्द्रं मायायुद्धेन सर्वशः॥ 12-287-20(76758)
तस्य वृत्रार्दितस्याथ मोह आसीच्छतक्रतोः।
रथन्तरेण तं तत्र वसिष्ठः समबोधयत्॥ 12-287-21(76759)
वसिष्ठ उवाच। 12-287-22x(6384)
देवश्रेष्ठोऽस्ति देवेन्द्र दैत्यासुरनिबर्हण।
त्रैलोक्यबलसंयुक्तः कस्माच्छक्र विषीदसि॥ 12-287-22(76760)
एष ब्रह्मा च विष्णुश्च शिवश्चैव जगत्पतिः।
सोमश्च भगवान्देवः सर्वे च परमर्षयः॥ 12-287-23(76761)
`समुद्विग्नं समीक्ष्य त्वां स्वस्तीत्यूचुर्जयाय ते।'
मा कार्षीः कश्मलं शक्र कश्चिदेवेतरो यथा।
आर्यां युद्धे मतिं कृत्वा जहि शत्रून्सुराधिप॥ 12-287-24(76762)
एष लोकगुरुस्त्र्यक्षः सर्वलोकनमस्कृतः।
निरीक्षते त्वां भगवांस्त्यज मोहं सुराधिप॥ 12-287-25(76763)
एते ब्रह्मर्षयश्चैव बृहस्पतिपुरोगमाः।
स्तवेन शक्र दिव्येन स्तुवन्ति त्वां जयाय वै॥ 12-287-26(76764)
भीष्म उवाच। 12-287-27x(6385)
एवं संबोध्यमानस्य वसिष्ठेन महात्मना।
अतीव वासवस्यासीद्बलमुत्तमतेजसः॥ 12-287-27(76765)
ततो बुद्धिमुपागम्य भगवान्पाकशासनः।
योगेन महता युक्तस्तां मायां व्यपकर्षत॥ 12-287-28(76766)
ततोऽङ्गिरः सुतः श्रीमांस्ते चैव सुमहर्षयः।
दृष्ट्वा वृत्रस्य विक्रान्तुमुपागम्य महेश्वरम्॥ 12-287-29(76767)
ऊचुर्वृत्रविनाशार्थं लोकानां हितकाम्यया।
ततो भगवतस्तेजो ज्वरो भूत्वा जगत्पतेः॥ 12-287-30(76768)
समाविशत्तदा रौद्रं वृत्रं लोकपतिं तदा।
विष्णुश्च भगवान्देवः सर्वलोकाभिपूजितः॥ 12-287-31(76769)
ऐन्द्रं समाविशुद्वज्रं लोकसंरक्षणे रतः।
ततो बृहस्पतिर्धीमानुपागम्य शतक्रतुम्।
वसिष्ठश्च महातेजाः सर्वे च परमर्षयः॥ 12-287-32(76770)
ते समासाद्य वरदं वासवं लोकपूजितम्।
ऊचुरेकाग्रमनसो जहि वृत्रमिति प्रभो॥ 12-287-33(76771)
महेश्वर उवाच। 12-287-34x(6386)
एष वृत्रो महाञ्शक्रे बलेन महता वृतः।
विश्वात्मा सर्वगश्चैव बहुमायश्च विश्रुतः॥ 12-287-34(76772)
तदेनमसुरश्रेष्ठं त्रैलोक्येनापि दुर्जयम्।
जहि त्वं योगमास्थाय मावमंस्थाः सुरेश्वर॥ 12-287-35(76773)
अनेन हि तपस्तप्तं बलार्थममराधिप।
षष्टिं वर्षसहस्राणि ब्रह्मा चास्मै वरं ददौ॥ 12-287-36(76774)
महत्त्वं योगिनां चैव महामायत्वमेव च।
महाबलत्वं च तथा तेजश्चाग्र्यं सुरेश्वर॥ 12-287-37(76775)
एतत्त्वां मामकं तेजः समाविशति वासव।
वृत्रमेवं त्ववध्यं तं वज्रेण जहि दानवम्॥ 12-287-38(76776)
शक्र उवाच। 12-287-39x(6387)
भगवंस्त्वत्प्रसादेन दितिजं सुदुरासदम्।
वज्रेण निहनिष्यामि पश्यतस्ते सुरर्षभ॥ 12-287-39(76777)
भीष्म उवाच। 12-287-40x(6388)
आविश्यमाने दैत्ये तु ज्वरेणाथ महासुरे।
देवतानामृषीणां च हर्षान्नादो महानभूत्॥ 12-287-40(76778)
ततो दुन्दुभयश्चैव शङ्ख्याश्च सुमहास्वनाः।
मुरजा डिण्डिभाश्चैव प्रावाद्यन्त सहस्रशः॥ 12-287-41(76779)
असुराणां तु सर्वेषां स्मृतिलोपो महानभूत्।
मायानाशश्च बलवान्क्षणेन समपद्यत॥ 12-287-42(76780)
तमाविष्टमथो ज्ञात्वा ऋषयो देवतास्तथा।
स्तुवन्तः शक्नमीशानं तथा प्राचोदयन्नपि॥ 12-287-43(76781)
रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः।
ऋषिभिः स्तूयमानस्य रूपमासीन्सुदुर्दृशम्॥ ॥ 12-287-44(76782)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्ताशीत्यधिकद्विशततमोऽध्यायः॥ 287॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-287-21 अथान्तरे च तं तत्रेति ध. पाठः॥ 12-287-22 सुरारातिनिबर्हणेति थ. पाठः॥ 12-287-24 कश्चिदेव नरो यथेति ध. पाठः॥ 12-287-25 एष देवगुरुस्त्वद्येति ध. पाठः॥ 12-287-26 स्तुवन्त्यात्मजयाय वै इति ध. पाठः॥ 12-287-34 बहुमायासु विश्रुत इति थ. पाठः॥ 12-287-42 धृतिलोपो महानभूत् इति थ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|